Bhagavadgita !

700 Gita Slokas for Parayana in Devanagari

Sanskrit text in Devanagari, Kannada, Gujarati, English, Telugu
||om tat sat||

||ओम् तत् सत्॥

||ध्यानं॥

ओम् श्रीकृष्ण परब्रह्मणे नमः॥

ओम् ॥शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्विधम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

ओम्॥ अगजानन पद्मार्कं गजननमहर्निशम्।
अनेकदन्तं भक्तानां एकदन्तमुपास्महे॥

ओम्॥ अखंडलमंडलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितम् येन तस्मैश्री गुरवे नमः॥

ओम्॥ कृष्णं कमलपत्राक्षं पुण्यश्रवण कीर्तनम्।
वासुदेअं जगद्योनिं नौमि नारायणं हरिम्॥

ओम्॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमोवै ब्रह्मनिधये वाशिष्ठाय नमोनमः॥

ओम्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

॥ओम् तत् सत्॥

 

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ प्रथमोऽध्यायः
अर्जुनविषादयोगः

धृतराष्ट्र उवाच॥

धर्मक्षेत्रे कुरुक्षेत्रे
समवेता युयुत्सवः ।
मामकाः पाण्डवश्चैव
किमकुर्वतु संजय ॥1||

संजय उवाच॥

दृष्ट्वातु पाण्डवानीकं
व्यूढं दुर्योधनस्तदा ।
आचार्य मुपसङ्गम्य
राजा वचनमब्रवीत् ॥2||

पश्यैतां पाण्डु पुत्राणां
आचार्यमहतीं चमूम्।
व्यूढां द्रुपद पुत्रेण
तव शिष्येण धीमता ॥3||

अत्रशूरा महेष्वासा
भीमार्जुन समायुधिः ।
युयुधानो विराटश्च
द्रुपदश्च महारथः ॥4||

दृष्टकेतुश्चेकितानः
काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्ती भोजश्च
शैब्यश्च नरपुङ्गवः ॥5||

युधामन्युश्च विक्रान्त
उत्तमौजाश्च वीर्यवान् ।
सौभौद्रो द्रौपदेयाश्च
सर्व एव महारथाः ॥6||

अस्माकं तु विशिष्ठा ये
तान्निबोध द्विजोत्तम ।
नायका ममसैन्यस्य
संज्ञार्थं तान् ब्रवीमिते ॥7||

भवान् भीष्मश्च कर्णश्च
कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च
सौमदत्ति स्तथैवच ॥8||

अन्ये च बहवः शूरा
मदर्थे त्यक्त जीविताः ।
नानाशस्त्र प्रहरणाः
सर्वे युद्धविशारदाः ॥9||

अपर्याप्तं तदस्माकं
बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां
बलं भीमाभिरक्षितां ॥10||

अयनेषु च सर्वेषु
यथा भाग मवस्थिताः।
भीष्ममेवाभि रक्षन्तु
भवन्तः सर्वएव हि ॥11||

तस्य संजनयन् हर्षं
कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्छैः
शंखं धद्मौ प्रतापवान् ॥12||

ततः शंखाश्च भेर्यश्च
पणवानक गोमुखाः ।
सहसैवाभ्यहन्यंत
स शब्दस्तुमुलोऽभवत् ॥13||

ततः श्वेतैः हयैर्युक्ते
महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव
दिव्यौ शंखौ प्रदध्मतुः॥14||

पाञ्चजन्यं हृषीकेशो
देवदत्तं धनंजयः।
पौण्ड्रं दध्मौ महाशंखं
भीमकर्मा वृकोद रः ॥ 15||

अनन्तविजयं राजा
कुन्तीपुत्रो युधिष्टिरः ।
नकुलः सहदेवश्च
सुघोष मणिपुष्पकौ॥16||

काश्यश्च परमेष्वासः
शिखण्डीच महरथः ।
धृष्टद्यम्नो विराटश्च
सात्यकिश्चापराजितः ॥17||

द्रुपदो द्रौपदेयाश्च
सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः
शंखान् दध्मुः पृथक् पृथक् ॥18||

सघोषो धार्तराष्ट्राणां
हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव
तुमुलो व्यनु नादयन् ॥19||

अथ व्यवस्थितान् दृष्ट्वा
धार्तराष्ट्रान् कपिध्वजः ।
प्रवृते शस्त्रसम्पाते
धनुरुद्यम्य पाण्डवः ॥20||

हृषीकेशं तदा वाक्यं
इदमाह महीपते ।

अर्जुन उवाच॥
सेनयोरुभयोर्मध्ये
रथं स्थापयमेऽच्युता ॥ 21 ||

यावदेतान्निरीक्षेऽहं
योद्धुकामानवस्थितान् ।
कैर्मयासह योद्धव्यं
अस्मिन् रण समुद्यमे ॥22||

योत्स्यमाना नवेक्षेऽहं
य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेः
युद्धे प्रिय चिकीर्षवः ॥23||

सञ्जय उवाच॥

एवमुक्तो हृषीकेशो
गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये
स्थापयित्वा रथोत्तमम् ॥24||

भीष्म द्रोण प्रमुखतः
सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्
समवेतान् कुरूनिति ॥25||

तत्रापश्यत् स्थितान् पार्थः
पितॄनथ पितामहान् ।
आचार्यान् मातुलान् भ्रात्रून्
पुत्रान्पौत्रान् सखींस्तथा॥26||

श्वशुरान् सुहृदश्चैव
सेनयोरुभयोरपि।
तान् समीक्ष्य स कौन्तेयः
सर्वान् बन्धूनवस्थितान्॥27||

कृपया परयाऽऽविष्टो
विषीदन् इदमब्रवीत् ।

अर्जुन उवाच ॥

दृष्ट्वेमं स्वजनं कृष्ण
युयुत्सं समुपस्थितम्॥28||

सीदन्ति मम गात्राणि
मुखंच परिशुष्यति।
वेपथुश्च शरीरे मे
रोमहर्षश्चजायते ॥29||

गाण्डीवं स्रंसते हस्तात्
त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं
भ्रमतीव च मे मनः ॥30||

निमित्तानि च पश्यामि
विपरीतानि केशव।
न चश्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे ॥31||

न काञ्क्षे विजयं कृष्ण
न च राज्यंसुखानि च।
किंनो राज्येन गोविंद
किं भोगैर्जीवितेन वा ॥32||

येषामर्थे कांक्षितं नो
राज्यं भोगाः सुखानिच ।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च ॥ 33||

अचार्याः पितरः पुत्राः
तथैवच पितामहाः।
मातुलाः श्वशुराः पौत्राः
स्यालाः सम्बन्धिनस्तदा ॥34||

एतान्नहन्तुमिच्छामि
घ्नतोऽपिमधुसूदन ।
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते ॥35||

निहत्य धार्तराष्ट्रान्नः
काप्रीतिः स्याज्जनार्दन ।
पापमेवाश्रये दस्मान्
हत्वैतानाततायिनः ॥36||

तस्मान्नार्हा वयं हन्तुं
धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा
सुखिनः स्याम माधवः ॥37||

यद्यप्येते न पश्यन्ति
लोभोपहत चेतसः ।
कुलक्षयकृतं दोषं
मित्रद्रोहे च पातकम्॥38||

कथं न ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं
प्रपश्यद्भिर्जनार्दन ॥39||

कुलक्षये प्रणश्यन्ति
कुलधर्माः सनातनः ।
धर्मे नष्टे कुलं कृत्स्नं
अधर्मोऽभिभवत्युत॥40||

अधर्माभिभवात् कृष्ण
प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय
जायते वर्ण संकरः ॥41||

सङ्करो नरकायैव
कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां
लुप्तपिण्डोदक क्रियाः ॥42||

दोषेरेतैः कुलघ्नानां
वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः
कुलधर्माश्च शाश्वताः ॥43||

उत्सन्न कुलधर्माणां
मनुष्याणां जनार्दन ।
नरके नियतं वासो
भवतीत्यनुशुश्रुम ॥44||

अहो बत महापापं
कर्तुं व्यवस्थिता वयं ।
यद्राज्य सुखलोभेन
हन्तुं स्वजन मुद्यताः ॥45||

यदि मामप्रतीकार
मशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युः
तन्मे क्षेमतरं भवेत् ॥46||

संजय उवाच॥

एवमुक्त्वा अर्जुनः संख्ये
रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं
शोक संविघ्नमानसः ॥47||

इति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योग शास्त्रे
श्रीकृष्णार्जुन संवादे अर्जुन विषादयोगो नाम
प्रथमोऽध्यायः ।
||ओम् तत् सत् ॥

______________________________________________

॥ओम् तत् सत् ॥

श्रीमद्भगवद्गीते
अथ द्वितीयोऽध्यायः
सांख्य योगः॥

संजय उवाच॥

तं तथा कृपयाऽऽविष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्त मिदं वाक्यं उवाच मधुसूदनः ॥1||

श्री भगवानुवाच॥

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्य जुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन ॥2||

क्लैब्यं मास्मगमः पार्थ नैतत् त्वय्युपपद्यते ।
क्षुद्रं हृदय दौर्बल्यं त्वक्योत्तिष्ट परन्तप ॥3||

अर्जुन उवाच॥

कथं भीष्म महं संख्ये द्रोणं च मधुसूधन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥4||

गुरू नहत्वापि महानुभावान्
श्रेयोभोक्तुं बैक्षमपीहलोके ।
हत्वा अर्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुथिर प्रदिग्थान् ॥5||

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वानो जयेयुः।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥6||

कार्पण्यदोषोऽपहतस्वभावः
पृच्चामि त्वां धर्म सम्मूढचेताः ।
यत् श्रेयस्स्यान्निश्चितं ब्रूहितन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥7||

न हि प्रपश्यामि ममापनुद्यात्
यच्चोक मुच्छोषण मिन्द्रियाणाम्।
अवाप्य भूमा वसपत्न मृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥8||

संजय उवाच॥

एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः।
न योत्स्ये इति गोविन्दं उक्त्वा तूष्णीं बभूव ह ॥9||

तं उवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तं इदं वचः॥10||

श्री भगवानुवाच॥

अशोच्या नन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासू नगतासूंश्च नानु शोचन्ति पण्डिताः ॥11||

नत्वेवाहं जातु नासं नत्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12||

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः धीरः तत्र नमुह्यति ॥13||

मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुखदुःखदाः ।
अगमापायिनोऽनित्याः तां स्तितिक्षस्व भारत ॥14||

यं हि न व्यधयन्त्येते पुरुषं पुरुषर्षभ।
सम दुःख सुखं धीरं सोऽमृतत्वाय कल्पते ॥15||

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोः तत्व दर्शिभिः ॥16||

अविनाशितु तद्विद्धि येन सर्व मिदं ततं ।
विनाश मव्यय स्यास्य नकश्चित् कर्तुमर्हति ॥17||

अन्तवन्त इमे देहाः नित्यस्स्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥18||

य एनं वेत्ति हन्तारम् यश्चैनं मन्यते हतं ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19||

न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्य श्शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥20||

वेद विनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कं ॥21||

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीरानि विहाय जीर्णान्
अन्यानि संयाति नवानि देहे॥22||

नैनं चिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥23||

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एवच ।
नित्य सर्व गतः स्थाणुः अचलोऽयं सनातनः ॥24||

अव्यक्तोऽयं अचिंत्योऽयम् अविकार्योऽयमुच्यते।
तस्मात् एवं विदित्वैनं नानु शोचितु मर्हसि ॥25||

अथ चैनं नित्य जातं नित्यं वा मन्यसे मृतं।
तथापि त्वम् महाबाहो नैवं शोचितु मर्हसि ॥26||

जातस्य हि ध्रुवोमृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितु मर्हसि ॥27||

अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्त निधनान्येन तत्र का परिदेवना ॥28||

अश्चर्यवत् पश्यति कश्चिदेनं
आश्चर्यवत् वदति तथैव चान्यः।
आश्चर्यवच्चैन मन्यः श्रुणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥29||

देहे नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30||

स्वधर्मपि चावेक्ष्य न विकम्पितु मर्हसि ।
धर्म्याद्धि युद्धात् श्रेयोऽन्यत् क्षत्रियस्य नविद्यते ॥31||

यदृच्चया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्ध मीदृशम् ॥32||

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिंच हित्वा पाप मवाप्ससि ॥33||

अकीर्तिं चापि भूतानि कथयिष्यंति तेऽव्ययाम् ।
संभावितस्य चा कीर्तिः मरणादतिरित्यते ॥34||

भयाद्रणा दुपरतंमन्यंते त्वां महरथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35||

अवाच्य वादांश्च बहून् वदिष्यंति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥36||

हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ट कौन्तेय युद्धाय कृत निश्चयः ॥37||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥38||

एषा तेऽभिहिते सांख्ये बुद्धि र्योगे त्विमां श्रुणु ।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39||

नेहाभि क्रमनाशोऽस्ति प्रत्यवायो नविद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायतो महतो भयात् ॥40||

व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दन ।
बहुशाखाः अनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥41|

यामिमां पुष्पितां वाचम् प्रवदन्त्य विपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥42||

कामात्मानः स्वर्गपराः जन्मकर्म फलप्रदाम् ।
किया विशेष बहुळां भोगैश्वर्य गतिं प्रति ॥43||

भोगैश्वर्य प्रसक्तानां तयाऽपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समधौ न विधीयते ॥44||

त्रैगुण्य विष यावेदाः निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य सत्त्वोस्थो निर्योग क्षेम आत्मवान् ॥45||

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46||

कर्मण्येवाधिकारस्ते माफलेषु कदाचन ।
माकर्मफल हेतुर्भूः माते सङ्गोऽस्त्वकर्मणि ॥ 47||

योगस्तः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिध्य सिध्योः समोभूत्वा समत्वं योग उच्यते ॥48||

दूरेणाह्यवरं कर्म बुद्धियोगात् धनंजय ।
बुद्धौ शरण मन्विछ्छ कृपणाः फलहेतवः ॥49||

बुद्धियुक्तो जहातिह उभे सुकृत दुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥50||

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म बन्ध विनिर्मुक्ताः पदं गच्चन्त्यनामयम्॥51||

यदाते मोहकलिलं बुद्धिर्व्यतिरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52||

श्रुति विप्रति पन्नाते यदा स्थास्यति निश्चला ।
समाधा वचला बुद्धिः तदा योग मवाप्स्यसि॥53||

अर्जुन उवाच॥

स्थित प्रज्ञस्य का भाषा समाधिस्तस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54||

श्री भगवानुवाच॥

व्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्न्मन्येवात्मना तुष्टः स्थित प्रज्ञः तदोच्यते ॥55||

दुःखेष्वनुदिग्न मनाः सुखेषु विगत स्पृहाः ।
वीतराग भयक्रोथः स्थितधीः मुनिरुच्यते ॥56||

यस्सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभं ।
नाभि नन्दति नद्वेष्टि तस्य प्रज्ञा प्रतिष्टिता॥57||

यदा संहारयते चायम् कूर्मोङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता॥58||

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽ प्यस्य परं दृष्ट्वा निवर्तते ॥59||

यततोह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाधीनि हरन्ति प्रसभं मनः ॥60||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्टिता ॥61||

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते ॥62||

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।
स्मृति भ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥63||

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
अत्मवश्यैर्विधेयात्मा प्रसादमधि गच्छति ॥64||

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्न चेतसो ह्याशु बुद्धिः पर्यवतिष्टति॥65||

नास्ति बुद्धि रयुक्तस्य न चायुक्तस्य भावना ।
नचा भावयतश्शान्तिः अशान्तस्य कुतः सुखम् ॥66||

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥67||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता ॥68||

यानिशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि स निशा पश्यते मुनेः ॥69||

अपूर्वमाणं अचल प्रतिष्टं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत् कामाः यं प्रविशन्ति सर्वे
सशान्ति माप्नोति न काम कामी॥70||

विहाय कामान् यस्सर्वान् पुमांश्चरति निस्पृहाः।
निर्ममो निरहंकारः सशान्तिमधिगच्चति ॥ 71||

एषा ब्राह्मीस्थितिः पार्थ नैनां प्राप्य विमुह्यति।
स्थित्वाऽ स्यामन्तकालेऽपि ब्रह्म निर्वाण मृच्चति ॥72||

इति श्रीमद्भगवद्गीतासु उपनिषत्सुब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे सांख्य योगोनाम
द्वितीयोऽध्यायः ॥

||ओम् तत् सत् ॥

______________________________________________

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ तृतीयोऽध्यायः
कर्मयोगः॥

अर्जुन उवाच॥

ज्यायसी चेत् कर्मणस्ते मताबुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ||

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥2||

श्री भगवानुवाच॥

लोकेऽश्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ 3||

नकर्मणा मनारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥4||

न हि कश्चित् क्षणमपि जातु तिष्ठत् अकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5||

कर्मेन्द्रियाणि संयम्य य अस्ते मनसा स्मरन्।
इन्द्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते ॥6||

यस्त्विन्द्रियाणि मनसा नियम्यारभते अर्जुन ।
कर्मेन्द्रियैः कर्मयोगं असक्तस्स विशिष्यते ॥7||

नियतं कुरुकर्मत्वं कर्म ज्यायो ह्यकर्मणः ।
शरीर यात्रापि च ते न प्रसिद्ध्येत् अकर्मणः ॥8||

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थम् कर्म कौन्तेय मुक्तसङ्गः समाचर ॥9||

सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेषवोऽस्त्विष्ठ कामधुक् ॥ 10||

देवान्भावयतानेन तेदेवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11||

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्ता न प्रदायैभ्यो यो भुज्ञ्तेस्तेन एव सः॥12||

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्व किल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13||

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञात् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥14||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16||

यस्त्वात्मरतिरेव स्यादात्म तृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥17||

नैव तस्य कृतेनार्थो नाकृते नेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18||

तस्मादसक्तस्सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥19||

कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् करुमर्हसि ॥ 20||

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनाः।
स यत्प्रमाणम् कुरुते लोकस्तदनुवर्तते ॥21||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तं अवाप्तव्यं वर्त एव च कर्मणि ॥22||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23||

उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24||

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वां स्तथाऽसक्तः चिकीर्षुः लोक संग्रहम् ॥ 25||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26||

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकार विमूढात्मा कर्ताहं इति मन्यते॥ 27||

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणागुणेषु वर्तन्त इति मत्वा न सज्जते ॥28||

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥29||

मयि सर्वाणि कर्माणिसन्न्यस्याध्यात्म चेतसा ।
निराशीनिर्ममो भूत्वा युध्यस्व विगत ज्वरः ॥30||

ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोअनसूयान्तो मुच्यन्ते तेऽपि कर्मभिः ॥31||

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान विमूढांस्तान् विद्धि नष्टानचेतसः ॥32||

अदृशं चेष्ठते स्वस्याः प्रकृतेः ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33||

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्चेत्तौ ह्यस्य परिपन्थिनौ ॥34||

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥35||

अर्जुन उवाच॥

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्चन्नपि वार्ष्णेय बलादिव नियोजितः ॥36||

श्री भगवानुवाच॥

काम एष क्रोधएष रजोगुण समुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥37||

धूमेनाव्रियते वह्निः यथाऽऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥38||

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥39||

इन्द्रियाणि मनोबुद्धिः अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥40||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41||

इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42||

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मान मात्मना ।
जहि शत्रुं महाबाहो कामरूप दुरासदम् ॥ 43||

ओम्
इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन संवादे कर्मयोगोनाम
तृतीयोऽध्यायः ।

||ओम् तत् सत् ॥

________________________________

॥ओम् तत् सत् ॥

श्रीमद्भगवद्गीते
अथ चतुर्थोऽध्यायः
ज्ञान योगः॥

श्री भगवानुवाच॥

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान् मनवे प्राह मनुः इक्ष्वाकवेऽब्रवीत् ॥1||

एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्ठः परन्तप ॥ 2 ||

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखाचेति रहस्यं ह्येतदुत्तमम् ॥ 3 ||

अर्जुन उवाच॥

अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4 ||

श्री भगवानुवाच॥

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तानयहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ||

अजोऽपि सन्नव्ययात्मा भूतानां ईश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्टाय संभवाम्यात्ममायया॥ 6 ||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानं अधर्मस्य तदात्मानम् सृजाम्यहम् ॥ 7 ||

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् ।
धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ 8 ||

जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9 ||

वीतराग भय क्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञान तपसा पूता मद्भावमागताः ॥10 ||

ये यथा मां प्रपद्यन्ते तां स्तथैव भजाम्यहम् ।
ममवर्त्मानु वर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ||

कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12||

चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तार मव्ययम् ॥ 13 ||

नमां कर्माणि लिम्पन्ति नमे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिः न स बध्यते ॥ 14 {{

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम् ॥15||

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसेऽशुभात्॥ 16||

कर्मणोह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17 ||

कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18||

यस्य सर्वे समारम्भाः काम संकल्पवर्जिताः ।
ज्ञानाग्नि दग्धकर्माणां तमाहुः पण्डितं बुधाः ॥ 19 ||

त्यक्त्वा कर्म फलासङ्गं नित्य तृप्तो निराश्रयः ।
कर्मण्यभिप्रवृतोऽपि नैव किंचित्करोति सः ॥ 20||

निराशीर्यत चित्तात्मा त्यक्त सर्व परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ 21 ||

यदृच्चालाभसंतुष्ठो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22||

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 23||

ब्रह्मार्पणम् ब्रह्महविः ब्रह्मग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24 ||

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25||

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26||

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27 ||

द्रव्य यज्ञा तपो यज्ञा योग यज्ञास्तथापरे ।
स्वाध्याय ज्ञानयज्ञश्च यतयः संशितव्रताः ॥ 28 ||

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापान गतीरुद्ध्वा प्राणायामपरायणाः ॥ 29 ||

अपरे नियताहारः प्राणान् प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपित कल्मषाः ॥30||

यज्ञशिष्टामृत भुजो यान्ति ब्रह्म सनातनम्।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यःकुरुसत्तम ॥ 31||

एवं बहुविथा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ 32||

श्रेयान् द्रव्यमयाद्यज्ञा ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33||

तद्विद्धि प्रणि पातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्व दर्शिनः ॥ 34 ||

यत् ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35||

अपि चेदपि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36||

यथैथांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन।
ज्ञानाग्नि सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37||

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विंदति॥ 38 ||

श्रद्ध्वान् लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति॥ 39 ||

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40||

योगसन्न्यस्तकर्माणां ज्ञानसंछिन्नसंशयम् ।
आत्मवंतं न कर्माणि निबध्नंति धनंजय ॥ 41 ||

तस्मादज्ञान संभूतं हृत्थ्सं ज्ञानासिनात्मनः ।
चित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन संवादे ज्ञानयोगो नाम
चतुर्थोऽध्यायः ॥
||ओम् तत् सत् ॥

----------------------------------------------------

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ पंचमोऽध्यायः
कर्म सन्यास योगः॥

अर्जुन उवाच॥

सन्न्यासं कर्मणां कृष्ण पुनर्योगंच शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥1||

श्रीभगवानुवाच॥

सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥2||

ज्ञेयस्स नित्य सन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥3||

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्दिताः ।
एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम् ॥4||

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5||

सन्न्यासस्तु महाबाहो मुनिर्ब्रह्म न चिरेणाधिगच्छति ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥6||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्म भूतात्म कुर्वन्नपि न लिप्यते ॥7||

नैवकिंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्॥8||

प्रलपन् विशृजन् गृहणन् उन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥9||

ब्रह्माण्याधाय कर्माणि सज्ङं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्म पत्र मिवांभसा ॥10||

कायेन मनसा बुध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति संगं त्यक्त्वाऽऽत्मशुद्धये ॥11||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः काम कारेण फलेसक्तो निबध्यते ॥ 12||

सर्व कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्नकारयन् ॥13||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल संयोगं स्वभावस्तु प्रवर्तते ॥14||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15||

ज्ञानेन तुतदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥16||

तद्बुद्धय स्तदात्मानः तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञान निर्धूत कल्मषाः ॥17||

विद्या विनय संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनिचैव श्वपाके च पण्दिताः समदर्शिनः ॥18||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥19||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चा प्रियम्।
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥20||

बाह्यस्पर्षेष्वेसक्तात्मा विन्दन्त्यात्मनि स्थितम्।
स ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते ॥21||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥22||

शक्नोतीहैव यस्सोढुं प्राक्छरीरविमोक्षनात् ।
कामक्रोदोद्भवं वेगं स युक्तः स सुखी नरः ॥23||

योऽन्तःसुखोऽन्तरारामः तथान्तर्ज्योतिरेव च ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24||

लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूत हिते रताः ॥25||

काम कोधवियुक्तानां यतीनां यत चेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26||

स्पर्सान् कृत्वा बहिर्बाह्यान् चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नसाभ्याण्तरचारिणौ ॥ 27||

यतेन्द्रियमनोबुद्धिः मुनिर्मोक्ष परायणः ।
विगतेच्छा भयक्रोधो यस्सदामुक्त एव सः ॥28||

भोक्तारं यज्ञतपसां सर्वलोक महेश्वरम्।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्चति ॥29||

इति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे कर्मसन्न्यासयोगोनाम
पंचमोऽध्यायः
ओम् तत् सत्

____________________________________________

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ षष्ठोऽध्यायः
आत्म संयम योगः॥

श्री भगवानुवाच॥

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स सन्न्यासी च योगी च न निरग्निर्नचाक्रियः ॥1||

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसंकल्पो योगी भवति कश्चन ॥2||

आरुरुक्ष्मोर्मुनेर्योगं कर्मकारण मुच्यते ।
योगारूढस्य तस्यैव शमः कारण मुच्यते ॥3||

यदाहि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्प सन्न्यासी योगारूढस्तदोच्यते ॥ 4||

उद्धरेदात्मानाऽऽत्मानं न आत्मान मवसादयेत् ।
अत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः ॥5||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शतृत्वे वर्तेतात्मैव शत्रुवत् ॥6||

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥7||

ज्ञानविज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्म कांचनः ॥8||

सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्दुषु।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥9||

योगी युञीत सततं आत्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशी रपरिग्रहः ॥ 10||

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नाति नीचं चेलाजिन कुशोत्तरम्॥11||

त्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासनेयुञ्ज्यात् योगमात्मविशुद्धये ॥12||

समं काय शिरोग्रीवं धारयन्नचलं स्थिरः।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥13||

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः।
मनस्संयम्य मच्छित्तो युक्त आसीत मत्परः ॥14||

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥15||

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुना ॥16||

युक्ताहार विहारस्य युक्तचेष्ठस्य कर्मसु ।
युक्त स्वप्नाव भोधस्य योगो भवति दुःखहा॥17||

यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते ।
निस्पृहास्सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥18||

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥19||

यत्रो परमते चित्तं निरुद्धं योगसेवया ।
यत्रचैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥20||

सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥21||

यं लभ्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥22||

तं विद्या दुःखसंयोग वियोगं योगसज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥23||

संकल्प प्रभवान् कामां स्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥24

शनैः शनैरुपरमेद्भुध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥25||

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ॥26||

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्म भूत मकल्मषम् ॥27||

युञ्जन्नेवं सदाऽऽत्मानं योगी विगत कल्मष:।
सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखमश्नुते ॥28||

सर्वभूतस्थ मात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योग युक्तात्मा सर्वत्र समदर्शनः ॥29||

योमां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणस्यामि स च मे नप्रणस्यति ॥30||

सर्वभूत स्थितं योमां भजत्येकत्वमास्थितः।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31||

अत्मौपन्येन सर्वत्र समं पश्यति योऽर्जुन।
सुखं वा यदि वादुःखं सयोगी परमो मतः ॥32||

अर्जुन उवाच॥

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूधन ।
एतस्याहं न पश्यामि चञ्चलत्वात्थ्सितिं स्थिराम् ॥33||

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥34||

श्रीभगवानुवाच॥

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥35||

असंशयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥36||

अर्जुन उवाच॥

अयतिश्रद्धयोपेतो योगाच्चलित मानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥37||

कच्चिन्नोभयविभ्रष्टश्चिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥38||

एतं मे संशयं कृष्ण च्छेत्तु मर्हस्य शेषतः ।
त्वदन्यः संशयस्यास्य च्चेता नह्युपपद्यते ॥39||

श्रीभगवानुवाच॥

पार्थनैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥40||

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्ठोऽभिजायते ॥41||

अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥42||

तत्र सं बुद्धि संयोगं लभते पौर्व दैहिकम् ।
यतते च ततो भूयसंसिद्धौ कुरुनन्दन ॥43||

पूर्वाभ्यासेन तैनेव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥44||

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेक जन्म संसिद्धिस्ततो याति परां गतिम्॥45||

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्याश्चाधिको योगी तस्माद्योगी भवार्जुन ॥46||

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धवान् भजते यॊ मां स मे युक्ततमो मतः ॥47||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम
षष्ठोऽध्यायः ॥
||ओम् तत् सत्॥

---------------------------------

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ सप्तमोऽध्यायः
विज्ञानयोगः॥

श्री भगवानुवाच॥

मय्यासक्त मनाः पार्थ योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु॥1||

ज्ञानं ते अहं सविज्ञानं इदं वक्ष्याम्यशेषतः।
यत् ज्ञात्वा नेह भूयोऽन्यज्ञातव्यमवशिष्यते ॥2||

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥3||

भूमिरापोऽनलो वायुः खं मनोबुद्धिरेवच ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥4||

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।
जीवभूतं महाबाहो ययेदं धार्यते जगत् ॥5||

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा ॥6||

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणि गणाइव॥7||

रसोऽहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः।
प्रणवः सर्व वेदेषु शब्दः खे पौरुषं नृषु॥8||

पुण्यो गन्धः पृथिव्यां च तेजशास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥9||

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धि मतामस्मि तेजस्तेजस्विनामहम् ॥10||

बलं बलवतां चाहं कामरागविवर्जितम्।
धर्नाविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥11||

ये चैव सात्विका भावा राजसा स्तामसाश्चये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥12||

त्रिभिर्गुणमयैर्भावैभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥13||

दैवी ह्येषागुणमयी मम माय दुरत्यया ।
मामेव ये प्रपद्यन्ते मयामेतां तरन्ति ते ॥14||

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययाऽपहृत ज्ञाना असुरं भावमाश्रिताः ॥15||

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थारी ज्ञानी च भरतर्षभ ॥16||

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥17||

उदाराः सर्व एवैते ज्ञानीत्वात्मैव मे मतम् ।
आस्थितः स हियुक्तात्मा मामेवानुत्तमां गतिम् ॥18||

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा दुर्लभः ॥19||

कामैस्तॆस्तॆर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियमास्थाय प्रकृत्या नियतास्स्वया ॥20||

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्यचलां श्रद्धां तामेव विदधाम्यहम् ॥21||

स तया श्रद्धया युक्तः तस्याराधन मीहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥22||

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥23||

अव्यक्तं व्यक्ति मापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥24||

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥25||

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥26||

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप ॥27||

येषाम् त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्व मोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥28||

जरामरण मोक्षाय ममाश्रित्य यतन्ति ये।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥29||

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥30||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विज्ञानयोगो नाम
सप्तमोऽध्यायः ॥
||ओम् तत् सत्॥

________________________________

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ अष्टमोऽध्यायः
अक्षरपरब्रह्म योगः॥

अर्जुन उवाच॥

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥1||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।
प्रायाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः ॥ 2||

श्री भगवानुवाच॥

अक्षरं ब्रह्म परं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥3||

अधिभूतं क्षरो भावः पुरुषाश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥4||

अन्तकालेच मामेव स्मरन्मुक्त्वा कळेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥5||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कळेबरं।
तं तमेवैति कौन्तेय सदा तद्भाव भावितः ॥6||

तस्मात् सर्वेषुकालेषु मामनुस्मरयुध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥7||

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥8||

कविं पुराणमनुशासितार
मनोरणीयांसमनुस्मरेद्यः।
सर्वस्यधातारमचिन्त्यरूपं
आदित्यवर्णं तमसः पुरस्तात् ॥9||

प्रयाणकाले मनसाऽचलेन
भक्त्य युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषं उपेति दिव्यं॥10||

यदक्षरं वेद विदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्तेपदं संग्रहेण प्रवक्ष्ये ॥11||

सर्वद्वाराणि संयम्य मनो हृदिनिरुध्यच ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥12||

ओम् इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥13||

अनन्यचेताः सततं योमां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥14||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गतिम्॥15||

अब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्यतु कौन्तेय पुनर्जन्म न विद्यते ॥16||

सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥17||

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त संज्ञके ॥18||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥19||

परस्तस्मात्तु भावोऽन्यो अव्यक्तोऽव्यक्तात् सनातनः ।
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥20||

अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम्।
यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम ॥ 21||

पुरुषः स पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22||

यत्रकाले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥23||

अग्निज्योतिरहश्शुक्ल ष्षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥24||

धूमोरात्रिः तदा कृष्ण ष्षण्मासा दक्षिणायणम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥25||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकयायत्यनावृतिम् अन्ययाऽवर्तते पुनः ॥26||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तोभवार्जुन ॥27||

वेदेषुयज्ञेषु तपस्सु चैव
दानेषु यत्पुण्यफलं प्रदिष्ठं।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगोनाम
अष्टमोऽध्यायः
||ओं तत् सत्॥
____________________________

॥ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ नवमोऽध्यायः
राजविद्या राजगुह्ययोगः॥

श्री भगवानुवाच॥

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यत् ज्ञात्वा मोक्ष्यसेऽशुभात्॥1||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥2||

अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप।
अप्राप्य मां निवर्तन्ते मृत्यु संसारवर्त्मनि॥3||

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्थ्सानि सर्वभूतानि न चाहं तेष्ववस्थितः॥4||

न च मत्थ्सानि भूतानि पश्यमे योगमैश्वरम्।
भूतभृन्नच भूतस्थो ममात्मा भूतभावनः॥5||

यथाऽऽकाशस्थितो नित्यं वायुस्सर्वत्रगो महान्।
तथा सर्वाणि भूतानि मत्थ्सानीत्युपधारय ॥6||

सर्व भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥7||

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥8||

न च मां तानि कर्माणि निबध्नन्ति धनंजय।
उदासीनवदासीनं असक्तं तेषु कर्मसु॥9||

मयाऽध्यक्षेण प्रकृतिः सूयते स चराचरम्।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥10||

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥11||

मोघशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसी मासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12||

महात्मनस्तु मां पार्थ दैवीं प्रकृतिमाश्रितः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13||

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥14||

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्॥15||

अहं क्रतुः अहं यज्ञः स्वधाहमहमौषधम्।
मन्त्रोऽहमहमेवाज्यं अहमग्निरहं हुतम्॥16||

पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्सामयजुरेवच ॥17||

गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत्।
प्रभवः प्रळयः स्थानं निधानं बीजमव्ययम्॥18||

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥19||

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैर्विष्टा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक
मश्नन्ति दिव्यान्दिवि देवभोगान्॥20||

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्मं अनुप्रपन्ना
गतागतं कामकामा लभन्ते॥21||

अनयाश्चिन्तयन्तो मां ए जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22||

येऽप्यन्न्यदेवता भक्ता यजन्ते श्रद्धयान्वितः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23||

अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेवच ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24||

यान्ति देवव्रता देवान् पित्रून् यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25||

पत्रं पुष्पं फलं तोयं योमे भक्त्या प्रयच्छति।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः॥26||

यत्करोसि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥27||

शुभाशुभफलै रेवं मोक्ष्यसे कर्मबंधनैः।
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥28||

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥29||

अपिचेत्सु दुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥30||

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीह नमे भक्तः प्रणश्यति॥31||

मां हि पार्थ व्यपास्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति परांगतिम्॥32||

किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्षयस्तदा।
अनित्यं असुखं लोकमिमं प्राप्य भजस्वमाम्॥33||

मन्मनाभव मद्भक्तो मद्याजीमां नमस्कुरु।
मामेवैष्यसि युक्त्वैवं आत्मानं मत्परायणः॥34||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे राजविद्या राजगुह्ययोगोनाम
नवमोऽध्यायः
||ओं तत् सत् ॥

____________________________________________
॥ओं तत् सत् ॥

श्रीमद्भगवद्गीते
अथ दशमोऽध्यायः
विभूति योगः॥

श्रीभगवानुवाच॥

भूय एव महाबाहो श्रुणुमे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1||

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥2||

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढस्य मर्त्येषु सर्वपापैः प्रमुच्यते॥3||

बुद्धिर्‍ज्ञानमसम्मोहः क्षमा सत्यं दमश्शमः।
सुखं दुःखं भवोऽभावो भयं च अभयमेव च॥4||

अहिंसा समता तुष्टिः तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्तएव पृथग्विधाः॥5||

महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥6||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥7||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥8||

मच्छित्ता मद्गताप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥9||

तेषां सततयुक्तानां भजतां प्रीति पूर्वकम्।
ददामि बुद्धि योगं तं येन मामुपायान्ति ते॥10||

तेषामेवानुकंपार्थ महमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञान दीपेन भास्वता॥11||

अर्जुन उवाच॥

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादि देवमजं विभुम्॥12||

अहुस्त्वां ऋषयस्सर्वे देवर्षिर्नारदस्तथा।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥14||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम।
भूत भावन भूतेश देवदेव जगत्पते॥15||

वक्तुमर्हस्यशेषेण दिव्याह्यात्म विभूतयः।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥16||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया॥17||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन।
भूयं कथय तृप्तिर्हि श्रुण्वतो नास्ति मेऽमृतम्॥18||

श्री भगवानुवाच॥

हन्त ते कथयिष्यामि दिव्याः आत्म विभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥19||

अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च॥20||

अदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणांमहं शशी॥21||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥22||

रुद्राणां शंकरश्चास्मि मेरुश्शिखरिणामहम्।
वसूनां पावकश्चास्मि मेरुश्शिखरिणामहम्॥ 23||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्॥
सेनानीमहं स्कन्दः सरसामस्मि सागरः॥24||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥25||

अश्वत्थः सर्व वृक्षणां देवर्षीणां च नारदः।
गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26||

उच्छैश्श्रवसमश्वानां विद्धि माममृतोद्भवम्।
इरावतं गजेन्द्राणां नराणां च नराधिपम्॥27||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः॥28||

अनन्ताश्चास्मि नागानां वरुणो यादसामहम्।
पितॄणामर्यमा चास्मि यमस्संयमतामहम्॥29||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहम् वैनतेयश्च पक्षिणाम्॥30||

पवनः पवतामस्मि रामश्शस्त्रभृतामहम्।
झुषाणां मकरश्चास्मि श्रोतसामस्मि जाह्नवी॥31||

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।
अध्यात्म विद्या विद्यानां वादः प्रवदतामहम्॥32||

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।
अहमेवाक्षयः कालो धाताहं विश्वतो मुखः॥33||

मृत्युस्सर्वहरश्चाहं उद्भवश्च भविष्यताम्।
कीर्तिश्श्रीर्वाक्य नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34||

बृहत्साम तथा साम्नां गायत्री छंदसामहम्।
मासानां मार्गशीर्षोऽहं ऋतूनां कुशुमाकरः॥35||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥36||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥38||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यान् मया भूतं चराचरम्॥39||

नान्तोऽस्ति मम दिव्यानां विभूतिनां परन्तप।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥40||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्च त्वं ममतेजोंऽश संभवम्॥41||

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्॥42||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विभूतियोगोनाम
दशमोऽध्यायः
॥ओं तत् सत्॥

------------------------------------------
||ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ एकादशोऽध्यायः
विश्वरूपसंदर्शनयोगः॥

अर्जुन उवाच॥

मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम्।
यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥1||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशोमया।
तत्त्वः कमलपत्राक्ष महात्म्यमपि चाव्ययम्॥2||

एवमेतद्यथाऽऽत्थ त्वम् आत्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपं ऐश्वरं पुरुषोत्तम॥3||

मन्यसे यदि तत् शक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मान मव्ययम्॥4||

श्रीभगवानुवाच॥

पश्यमे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥ 5||

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥6||

इहैकस्थं जगत्कृत्स्नं पश्याद्य स चराचरं।
ममदेहे गुडाकेश यच्चान्यद्रष्टुमिच्चसि॥7||

नतु मां शक्यसे द्रष्टुं अनेनैव स्वचक्षुसा।
दिव्यं ददामि तेचक्षुः पश्यमे योगमैश्वरम्॥8||

संजय उवाच॥

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥9||

अनेकवक्रनयनं अनेकाद्भुतदर्शनम्।
अनेक दिव्याभरणं दिव्यानेकोद्यतायुथम्॥10||

दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम्॥11||

दिविसूर्य सहस्रस्य भवेद्युगपदुत्थिता।
यदि भास्सदृशी सा स्यात् भासस्तस्य महात्मनः॥12||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा॥13||

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः।
प्रणम्य शिरसा देवं कृतांजलिरभाषत॥14||

अर्जुन उवाच॥

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंज्ञान्।
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान्॥15||

अनेक बाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं नपुनस्तवादिम्
पश्यामि विश्वेश्वर विश्वरूप॥16||

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमंतम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
दीप्तानलार्कद्युति मप्रमेयम्॥17||

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययश्शाश्वत धर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥18||

अनादि मध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामित्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम्॥19||

द्यावापृथिव्योरिदमन्तरम् हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदम्
लोकत्रयं प्रव्यथितं महात्मन्॥20||

अमीहि त्वां सुरसंघा विशन्ति
केचित् भीताः प्राङ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षि सिद्धिसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥21||

रुद्रादित्य वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसंघा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥22||

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहु बाहूरुपादम्।
बहूदरं बहु दंष्ट्राकरालम्
दृष्ट्वा लोकाः प्रव्यधिता स्तथाऽहम्॥23||

नभः स्पृशम् दीप्तमनेकवर्णं
व्यात्ताननं दीप्त विशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यधितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो॥24||

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव काला नल सन्निभानि।
दिशो न जाने न लभे च शर्म
प्रशीद देवेश जगन्निवास॥25||

अमीच त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि पालसंघैः।
भीष्मद्रोणस्सूत पुत्र स्तथाऽसौ
सहस्मदीयैरपि योधमुख्यैः॥26||

वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानिकानि।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमांगैः॥27||

यथानदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति।
तथा त्वामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति॥28||

यथा प्रदीप्तं ज्वलनंपतंगा
विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोका
स्तवापि वक्त्राणि समृद्दवेगाः॥29||

लेलिह्यसे ग्रसमानस्समन्ता
ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो॥30||

अख्याहि मे को भवानुग्र रूपो
नमोऽस्तु ते देव वर प्रसीद।
विज्ञातु मिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम्॥31||

श्री भगवानुवाच॥

कालोऽस्मि लोक क्षयकृत्प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः॥32||

तस्मात्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम्।
मयैवेते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्॥33||

द्रोणं च भीष्मं च जयद्रथं च
कर्णम् तथाऽनान्यपि योधवीरान्।
मयाहतां स्त्वं जहि माव्यधिष्ठा
युध्यस्व जेतासि रणे सपत्नान्॥34||

संजय उवाच॥

एतच्छ्रुत्वावचनं केशवस्य
कृतांजलिर्वेपमानः किरीटी।
नमस्कृत्वा भूययेवाह कृष्णं
सगद्गदं भीत भीतः प्रणम्य॥35||

अर्जुन उवाच॥

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः॥36||

कस्माच्च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदस तत्परं यत्॥37||

त्वामादि देवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम्।
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्त रूप॥38||

वायुर्यमोऽग्निर् वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्यः
पुनश्च भूयोऽपि नमो नमस्ते॥39||

नमो पुरस्तात् अथ पृष्टतस्ते
नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्या मितमिक्रमस्त्वम्
सर्वं समाप्नोषि ततोऽसि सर्वः॥40||

सखेति मत्वा प्रसभं यदुक्तम्
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि॥41|

यच्चापहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षं
तत्‍क्षामये त्वा महमप्रमेयम्॥42||

पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यद्धिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव॥43||

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीश मीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥44||

अदृष्ट पूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं
प्रशीद देवेश जगन्निवास॥45||

किरीटिनं गदिनं चक्रहस्तं
इच्छामित्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते॥46||

श्रीभगवानुवाच॥

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शित मात्मयोगात्।
तेजोमयं विश्वमनन्त माद्यं
यन्मे त्वदन्येन न दृष्ट पूर्वम्॥47||

न वेदयज्ञाध्ययनैर्नदानै
र्न च क्रियाभिर्न तपोभिरुग्रैः
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर॥48||

माते व्यथा माच विमूढभावो
दृष्ट्वा रूपं घोरमीद्रुज्ञ्ममेदं।
व्यपेतभीः प्रीतिमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य॥49||

संजय उवाच॥

इत्यर्जुनं वासुदेवः तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥50||

अर्जुन उवाच॥

दृष्ट्वेदं मानुषंरूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥51||

श्रीभगवानुवाच॥

सुदुर्दर्शमिदं रूपं दृष्टवानपि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शन काङ्क्षिणः॥52||

नाहं वैदैर्न तपसा न दानेन न चेज्यया।
शक्यं एवं विधो द्रष्टुं दृष्टवानसि मां यथा॥53||

भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥54||

मत्कर्मकृन्मत्परमो मद्भक्तसंगवर्जितः।
निर्वैरः सर्वभूतेषु यस्स मामेति पाण्डव॥55||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विश्वरूप संदर्शन योगोनाम
एकादशोऽध्यायः॥
॥ओं तत् सत् ॥

________________________________________

||ओम् तत् सत्॥

श्रीमद्भगवद्गीते
द्वादशोऽध्यायः
भक्ति योगः॥

अर्जुन उवाच॥
एवं सतयुक्ता ये भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1||

श्रीभगवानुवाच॥

मय्यावेश्य मनो येमां नित्ययुक्ता उपासते।
श्रद्धयापरयोपेताः ते मे युक्ततमा मताः॥2||

ये त्वक्षरमनिर्देश्य मव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥3||

संनियमेन्द्रियग्रामं सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥4||

क्लेशोऽधिकतरः तेषां अव्यक्तासक्तचेतसाम्।
अव्यक्ताहि गतिर्दुःखं देहवद्भिरवाप्यते॥5||

येतु सर्वाणि कर्माणि मयि सन्यस्य मत्पराः।
अनन्येनैव योगेन मां ध्यायन्त उपासते॥6||

तेषामहं समुद्धर्ता मृत्यु संसार सागरात् ।
भवामि न चिरात्पार्थ मय्यावेशित चेतसाम्॥7||

मय्येव मन आधत्स्व मयिबुद्धिं निवेशय।
निवषिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥8||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततो मां इच्छाप्तुं धनंजय॥9||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥10||

अथैतदप्यसक्तोऽसि कर्तुं मद्योगमाश्रितः।
सर्वकर्म फलत्यागं ततः कुरु यतात्मवान् ॥11||

श्रेयो हि ज्ञानमभ्यासात् ज्ञानात् ध्यानंविशिष्यते।
ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम्॥12||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एवच ।
निर्ममो निरहंकारः समदुःख सुखः क्षमी॥13||

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पित मनोबुद्धिर्योमद्भक्तः स मे प्रियः॥14||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वॆगैर्मुक्तो यस्स च मे प्रियः॥15||

अनपेक्ष सुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारंभ परित्यागी यो मद्भक्तः स मे प्रियः॥16||

यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति।
शुभाशुभ परित्यागी भक्तिमान् यस्स मे प्रियः॥17||

समश्शत्रौ च मित्रे च तथा मानावमानयोः ।
शीतोष्णसुखदुःखेषु समस्संगविवर्जितः॥18||

तुल्यानिन्दस्तुतिर्मौनी संतुष्टो येन केन चित्।
अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः॥19||

येतु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ 20||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे भक्ति योगोनाम
द्वादशोऽध्यायः॥
॥ओं तत् सत् ॥

______________________________________

||ओं तत् सत् ॥

श्रीमद्भगवद्गीते
अथ त्रयोदशोऽध्यायः
क्षेत्र क्षेत्रज्ञ विभाग योगः॥

अर्जुन उवाच॥
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञ मेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥1||

श्रीभगवानुवाच॥

इदं शरीरं कौन्तेय क्षेत्रमित्यभिदीयते।
एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥2||

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।
क्षेत्र क्षेत्रज्ञयोर् ज्ञानं यत्तत् ज्ञानं मतं मम॥3||

तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।
स च यो यत्प्रभावश्च तत्समासेन मे श्रुणु॥4||

ऋषिभिर्भहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥5||

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥6||

इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः।
एतत् क्षेत्रं समासेन सविकार मुदाहृतम्॥7||

अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥8||

इन्द्रियार्थेषु वैराग्यं अनहंकार एव च।
जन्ममृत्यु जराव्याधि दुःखदोषानुदर्शनम्॥9||

असक्ति रनभिष्वङ्गः पुत्र्गः दारगृहादिषु।
नित्यं च समचित्तत्व मिष्टानिष्टोपपत्तिषु॥10||

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेश सेवित्वमरतिर्जनसंसदि॥11||

अध्यात्म ज्ञान नित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतत् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा॥12||

ज्ञेयं यत्तत्प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते।
अनादिमत्परमं ब्रह्म न सत्तन्नासदुच्यते॥13||

सर्वतः पाणिपादं तत्सर्वतोऽक्षि शिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥14||

सर्वेन्द्रिय गुणाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्छैव निर्गुणं गुणभोक्तृ च॥15||

बहिरन्तश्च भूतानां अचरं चरमेवच।
सूक्ष्मत्वात् अविज्ञेयं दूरस्थं चान्तिकेच तत् ॥16||

अविभक्तं च भूतेषु विभक्तमिव स्थितम्।
भूतभर्तृच तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥17||

ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥18||

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥19||

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।
विकारांश्च गुणांश्चैव विद्धि प्रकृति संभवान्॥20||

कार्यकारण कर्तृत्वे हेतुः प्रकृति रुच्यते।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥21||

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥22||

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥23||

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥24||

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥25||

अन्ये त्वेव मजानन्तः श्रुत्वाऽन्येभ्य उपासते।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणः॥26||

यावत्संजायते किंचित् सत्वं स्थावरजङ्गमम्।
क्षेत्र क्षेत्रज्ञ संयोगात् तद्विद्धि भतर्षभ॥27||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।
विनश्यत्स्वविनश्यन्तम् यः पश्यति स पश्यति॥28||

समं पश्यन् हि सर्वत्र समवस्थित मीश्वरम्।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परांगतिम्॥29||

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाऽऽत्मानं अकर्तारं स पश्यति॥30||

यथाभूतपृथक्भावम् एकस्थमनुपश्यति।
तत एव च विस्तारं ब्रह्म संपद्यते तदा॥31||

अनादित्वान्निर्गुणत्वात् परमात्माय मव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति नलिप्यते॥32||

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥33||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥34||

क्षेत्र क्षेत्रज्ञयोरेवं अन्तरं ज्ञानचक्षुषा।
भूतप्रकृति मोक्षं च ये विदुर्यान्ति ते परम्॥35||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे क्षेत्र क्षेत्रज्ञ विभाग योगोनाम
त्रयोदशोऽध्यायः
॥ओं तत् सत्॥
________________________________

||ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ चतुर्दशोऽध्यायः
गुणत्रय विभाग योगः॥

श्रीभगवानुवाच॥
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यत् ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥1||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते प्रळये न व्यधन्ति च॥2||

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।
सम्भवस्सर्व भूतानां ततो भवति भारत ॥3||

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्तियाः।
तासां ब्रह्म महद्योनिः अहं बीजप्रदः पिता॥4||

सत्त्वं रजस्तम इति गुणाः प्रकृति संभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥5||

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघा॥6||

रजो रागात्मकं विद्धि तृष्णा सङ्गसमुद्भवम्।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनाम् ॥7||

तम स्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिः तन्निबध्नाति भारत॥8||

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥9||

रजस्तमश्चाभिभूय सत्त्वं भवति भारत।
रजस्सत्वं तमश्चैव तमस्सत्त्वं रजस्तथा॥10||

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत॥11||

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥12||

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विरुद्धे कुरुनन्दन॥13||

यद सत्त्वे प्रवृद्धेतु प्रळयं याति देहभृत् ।
तदोत्तमविदां लोकान् अमलान्प्रतिपद्यते॥14||

रजसि प्रळयं गत्वा कर्मसङ्गिषु जायते।
तथा प्रलीनस्तमसि मूढयोनिषु जायते॥15||

कर्मणसुकृतस्याहु सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखं अज्ञानं तमसः फलम्॥16||

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एवच ।
प्रमादमोहो तमसो भवतोऽज्ञानमेवच॥17||

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्था अथो गच्छन्ति तामसाः॥18||

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥19||

गुणानेतानतीत्यत्रीन् देही देहसमुद्भवः।
जन्ममृत्युजरादुःखै र्विमुक्तोऽमृतमश्नुते॥20||

अर्जुन उवाच॥

कैर्लिंगैस्त्रीन्गुणानेतान् अतीतो भवति प्रभो ।
किमाचारं कथं चैतां स्त्रीन्गुणानतिवर्तते ॥21||

श्रीभगवानुवाच॥

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।
नद्वेष्टि सम्प्रवृत्तानि न निवृत्तानि कांक्षति॥22||

उदासीनवदासीनो गुणैर्यो न विचाल्यते।
गुणावर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥23||

समदुःखसुखस्स्वस्थः समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्म संस्तुतिः॥24||

मानावमानयोः तुल्यः तुल्यो मित्रारिपक्षयोः।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥25||

मां च योऽव्यभिचारेण भक्ति योगेन सेवते।
स गुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पते॥26||

ब्रह्मणो हि प्रतिष्टाऽहम् अमृतस्याव्ययस्य च।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥27||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे गुणत्रय विभाग योगोनाम
चतुर्दशोऽध्यायः
॥ओं तत् सत्॥

____________

||ओं तत् सत्॥

श्रीमद्भगवद्गीते
अथ पञ्चदशोऽध्यायः
पुरुषोत्तम प्राप्ति योगः॥

श्रीभगवानुवाच॥

ऊर्ध्वमूलमधश्शाखं अश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्यपर्णानि यस्तं वेद स वेदवित् ॥1||

अथश्चोर्ध्वं प्रसृतास्तस्यशाखा
गुणप्रवृद्धा विषयप्रवालाः।
अधश्चमूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके॥2||

नरूपमस्येह तथोपलभ्यते
नान्तो नचादिर्न च संप्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूला
मसङ्गशस्त्रेण दृढेन छित्वा॥3||

ततः पदं तत्परिमार्गितव्यं
यस्मिन् गता ननिवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी॥4||

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः
गच्छन्त्य मूढाः पदमव्ययं तत् ॥5||

नतत् भासयते सूर्यो न शशाज्ञ्को न पावकः।
यद्गत्वा ननिवर्तन्ते तद्धाम परमं मम ॥6||

ममैवांशो जीवलोके जीवभूतस्सनातनः।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥7||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयत्॥8||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते॥9||

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।
विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥12||

गामाविश्य च भूतानि धारम्यह मोजसा।
पुष्णामि चौषधीस्सर्वा स्सोमो भूत्वा रसात्मकः॥13||

अहं वैश्वानरोभूत्वा प्राणिनाम् देहमाश्रितः।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्॥14||

सर्वस्य चाहं हृधि सन्निविष्टो
मत्तः स्मृतिः ज्ञानमपोहनं च।
वैदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्॥15||

द्वाविमौ पुरुषोलोके क्षरश्चाक्षर एवच ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥16||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥17||

यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।
अतोऽस्मि लोकेवेदे च प्रथितः पुरुषोत्तमः॥18||

योमामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वभजति मां सर्वभावेन भारत॥19||

इति गुह्यतमं शास्त्र मिदमुक्तं मयाऽनघ।
एतद्भुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥20||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तम प्राप्ति योगो नाम
पञ्चदशोऽध्यायः
॥ओं तत् सत् ॥

________________________________

||ओं तत् सत् ॥

श्रीमद्भगवद्गीते
अथ षोडशोऽध्यायः
दैवासुर संपद्विभाग योगः॥

श्रीभगवानुवाच॥

अभयं सत्त्वसंशुद्धिः ज्ञानयोग व्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्याय स्तप आर्जवम्॥1||

अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम्।
दया भूतेष्वलोलत्वं मार्दवम् ह्रीरचापलम्॥2||

तेजः क्षमा धृतिश्शौचं अद्रोहोनातिमानिता।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥3||

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥4||

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।
माशुचस्संपदं दैवी मभिजातोऽसि पाण्डव ॥5||

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव असुरएव च ।
दैवो विस्तरशः प्रोक्त असुरं पार्थमे शृणु॥6||

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7||

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत्काममैतुकम्॥8||

एतां दृष्टिमवष्ठभ्य नष्ठात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाजगतोऽहिताः॥9||

काममाश्रित्य दुष्पूरं दम्बमानमदान्विताः।
मोहाद्गृहीत्वाऽसद्ग्राहन् प्रवर्तन्तेऽशुचिव्रताः॥10||

चिन्तामपरिमेयां च प्रळयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्चिताः॥11||

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थ मन्यायेनार्थसंचयान्॥12||

इदमद्य मयालब्धमिमं प्राप्स्येमनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13||

असौ मयाहतश्शत्रुः हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी॥14||

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15||

अनेकचित्तविभ्रान्ता मोहजाल समावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥16||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाऽविधिपूर्वकम्॥17||

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः।
मामात्मापरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥18||

तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्र मशुभान् आसुरीष्वेव योनिषु॥19||

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततोयान्त्यधमां गतिम्॥20||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभः तस्मा देतत्रयं त्यजेत्॥21||

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
अचरत्यात्मनः श्रेयः ततो यान्तिपरां गतिम्॥22||

यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
न ससिद्धिमवाप्नोति न सुखं न परां गतिम्॥23||

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्र विधानोक्तं कर्मकर्तुमिहार्हसि॥24||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे दैवासुर संपद्विभाग योगो नाम
षोडशोऽध्यायः
॥ओं तत् सत्॥

_________________________________

||ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ सप्तदशोऽध्यायः
अथ श्रद्धात्रय विभाग योगः॥

अर्जुन वाच॥

ये शास्त्रविधि मुत्सृज्य
यजन्ते श्रद्धयाऽन्विताः।
तेषां निष्ठातु का कृष्ण
सत्त्वमाहो रजस्तमः॥1||

श्रीभगवानुवाच॥

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2||

सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोऽयंपुरुषो यो यत् श्रद्धस्य एव सः॥3||

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4||

अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः।
दम्भाहंकारसंयुक्ताः कामराग बलान्विताः॥5||

कर्शयन्तः शरीरस्थं भूतग्रामचेतसः।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुर निश्चयान्॥6||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपः तथा दानं तेषां भेदमिमं शृणु॥7||

आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक प्रियाः॥8||

कट्वाम्ल लवणात्युष्ण तीक्ष्ण रूक्षविदाहिनः।
अहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥9||

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10||

अफलाकांक्षिभिर्यज्ञो विधि दृष्टो य इज्यते।
यष्टव्यमेति मनः समाधाय स सात्विकः॥11||

अभिसन्धाय तु फलं दम्भार्थमपि चैवयत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धारहितं यज्ञं तामसं परिचक्षते॥13||

देवद्विज गुरुप्राज्ञ पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15||

मनः प्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥16||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।
अफलाकांक्षिभिर्युक्तैः सात्विकं परिचक्षते॥17||

सत्कारपूजमानार्थं तपो दम्बेन चैव यत्।
क्रियते तदिहप्रोक्तं राजसं चलमध्रुवम्॥18||

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशेकालेच पात्रेच तद्दानं सात्त्विकं स्मृतम्॥20||

यत्तुप्रत्युपकारार्थं फलमुद्दिस्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसस्मृतम्॥21||

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते।
असत्कृत मवज्ञातं तत् तामसमुदाहृतम्॥22||

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणाः तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23||

तस्मादोमित्युदाहृत्य यज्ञादानतपः क्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24||

तदित्य नभिसन्धाय फलं यज्ञतपः क्रियाः।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः॥25||

सद्भावे साधुभावेच सदित्येतत् प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26||

यज्ञे तपसि दाने च स्थितिस्सदिति चोच्यते।
कर्मचैव तदर्थीयं सदित्येवाभिदीयते॥27||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असत् इत्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे श्रद्धात्रय विभाग योगो नाम
सप्तदशोऽध्यायः
॥ओं तत् सत्॥

_________________________________________

||ओम् तत् सत्॥

श्रीमद्भगवद्गीते
अथ अष्थादशोऽध्यायः
मोक्षसन्न्यास योगः॥

अर्जुन उवाच॥

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशि निषूदन ॥1||

श्रीभगवानुवाच॥

काम्यानां कर्मणं न्यासं सन्न्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥2||

सत्याज्यं दोषवदित्येके कर्म प्राहुः मनीषिणः।
यज्ञदान तपः कर्म न त्याज्यमिति चापरे ॥3||

निश्चयं शृणुमे तत्र त्यागे भरतसत्तम।
त्यागोहि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥4||

यज्ञदान तपः कर्म न त्याज्यं कार्यमेवतत् ।
यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् ॥5||

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥6||

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥7||

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।
सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8||

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्त्वा फलं चैव त्यागः सात्त्विकोमतः ॥9||

न द्वेष्ट्यकुशलं कर्म कुशलेनानुसज्जते।
त्यागी सत्त्वसमाविष्टो मेधावी छ्चिन्नसंशयः ॥10||

नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिदीयते ॥11||

अनिष्टमिष्टं मिश्रं च त्रिविधः कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥12||

पञ्चैतानि महाबाहो कारणानि निबोधमे।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13||

अधिष्टानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14||

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः।
न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥15||

तत्रैवं सति कर्तारं आत्मानं केवलं तु यः।
पश्यत्यकृत बुद्धित्वान् न स पश्यति दुर्मतिः ॥16||

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वाऽपि स इमांल्लोकान् न हन्ति न निबध्यते ॥17||

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म चोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥18||

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने यथावत् शृणुतान्यपि ॥19||

सर्वभूतेषु यैनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम् ॥20||

पृथक्त्वेनतु यज्ञानं नानाभावान्पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥21||

यत्तु कृत्स्नवदेकस्मिन् कार्येसक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥22||

नियतं सङ्गरहितम् अरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्मयत् तत् सात्त्विकमुच्यते ॥23||

यत्तुकामेप्सुना कर्म साहङ्कारेण वा पुनः।
क्रियते बहुळायासं तत् राजसमुदाहृतम् ॥24||

अनुबन्धं क्षयं हिंसा मनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ॥25||

मुक्तसङ्गोऽनहं वादी धृत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक मुच्यते ॥26||

रागी कर्म फलप्रेप्सुः लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥27||

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28||

बुद्धेर्भेदं धृतेश्चैव गुणतः त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥29||

प्रवृत्तिंच निवृत्तिंच कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥30||

यया धर्ममधर्मं च कार्यं चाऽकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥31||

अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥32||

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥33||

ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकांक्षी धृतिः सा पार्थ राजसी ॥34||

यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥35||

सुखं त्विदानीं त्रिविधं शृणुमे भरतर्षभ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥36||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।
तत् सुखं सात्त्विकं प्रोक्तं आत्मबुद्धि प्रसादजम् ॥37||

विषयेन्द्रिय संयोगात् यत्त दग्रेऽमृतोपमम्।
परिणामे विषमिव तत् सुखं राजसं स्मृतं ॥38||

यदग्रे चानुबन्दे च सुखं मोहनमात्मनः।
निद्रालस्य प्रमादोत्थं तत् तामसमुदाहृतम् ॥39||

न तदस्ति पृथिव्यां वा दिवि देवेषु वापुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्स्यात्रिभिर्गुणैः ॥40||

ब्राह्मण क्षत्रियविशां शूद्राणां च परन्तप।
कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणैः ॥41||

शमो दमः तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥42||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धेचाप्य पलायनम्।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥43||

कृषि गोरक्षवाणिज्यं वैश्यं कर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44||

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्म निरतः सिद्धिं यथा विन्दति तत् शृणु ॥45||

यतः प्रवृतिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥46||

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥47||

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।
सर्वारम्भहि दोषेण धूमेनाग्निरिवावृताः ॥48||

असक्त बुद्धिः सर्वत्र जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधि गच्छति ॥49||

सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोधमे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50||

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयां स्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51||

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥52||

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥53||

ब्रह्मभूतः प्रसन्नात्मा न शोचति नाकांक्षति।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54||

भक्त्यामामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥55||

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56||

चेतसा सर्व कर्माणि मयि सन्न्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥57||

मच्चित्तसर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।
अथ चेत्त्वमहङ्कारान् न श्रोष्यसि विनंक्ष्यसि ॥58||

यद्यहङ्कारमाश्रित्य नयोत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्षयति ॥59||

स्वभावजेन कौन्तेय निबद्धस्स्वेन कर्मणा।
कर्तुं नेच्छसि मन्मोहात् करिष्यस्यवशोऽपि तत् ॥60||

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्टति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥61||

तमेव शरणं गच्छ सर्वभावेन भारत।
तत् प्रासादात्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62||

इति ते ज्ञानमाख्यातंगुह्याद्गुह्यतरं मया।
विमृश्यैतत् अशेषेण यथेच्छसि तथा कुरु ॥63||

सर्वगुह्यतमं भूयः शृणुमे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामिते हितम् ॥64||

मन्मनाभव मद्भक्तो मद्याजीमां नमस्कुरु।
मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥65||

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥66||

इदं ते ना तपस्काय ना भक्ताय कदाचन।
न चाऽशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67||

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68||

न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मात् अन्यः प्रियतरो भुवि ॥69||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाह मिष्टःस्यामिति मे मतिः ॥70||

श्रद्धवान् अनसूयश्च शृणुयादपि यो नरः।
सोऽपि मुक्तः शुभान् लोकान् आप्नुयात्पुण्यकर्मणाम् ॥71||

कच्छिदेतत् श्रुतं पार्थ त्वयैकाग्रेणचेतसा।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥72||

अर्जुन उवाच॥

नष्टोमोहः स्मृतिर्लब्धा त्वत् प्रासादान्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥73||

संजय उवाच॥

इत्याहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषं अद्भुतं रोमहर्षणम् ॥74||

व्यासप्रासादात् श्रुतवानेतत् गुह्यतमं परम्।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥75||

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥76||

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥77||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्रश्रीर्विजयो भूतिर्ध्रुवान् इति मतिर्मम ॥78||

इति श्रीमन्महाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
श्रीमद्भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे मोक्षसन्न्यास योगो नाम
अष्टादशोऽध्याय।
श्रीमद्भवद्गीता स्वरूप कृष्णार्जुन संवादं समाप्तम् ।
॥ओं तत् सत्॥
_______________________________________